श्री दशावतार स्तोत्र
प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रमखेदम् । केशव धृतमीनशरीर जय जगदीश हरे ॥
क्षितिरिह विपुलतरे तिष्ठति तव पृष्ठे धरणिधारणकिणचक्रगरिष्ठे । केशव धृतकूर्मशरीर जय जगदीश हरे ॥
वसति दशनशिखरे धरणी तव लग्ना शशिनि कलंककलेव निमग्ना । केशव धृतशूकररूप जय जगदीश हरे ॥
तव करकमलवरे नखमद्भुतशृंगं दलितहिरण्यकशिपुतनुभृंगम् । केशव धृतनरहरिरूप जय जगदीश हरे ॥
छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरजनितजनपावन । केशव धृतवामनरूप जय जगदीश हरे ॥
क्षत्रियरुधिरमये जगदपगतपापं स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप जय जगदीश हरे ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयं दशमुखमौलिबलिं रमणीयम् । केशव धृतरामशरीर जय जगदीश हरे ॥
वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप जय जगदीश हरे ॥
निन्दसि यज्ञविधेरहह श्रुतिजातं सदयहृदय दर्शितपशुघातम् । केशव धृतबुद्धशरीर जय जगदीश हरे ॥
म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् । केशव धृतकल्किशरीर जय जगदीश हरे ॥
फलश्रुति
श्रीजयदेवकवेरिदमुदितमुदारं शृणु सुखदं शुभदं भवसारम् । केशव धृतदशविधरूप जय जगदीश हरे ॥
वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥
